________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
४. अनर्थापत्तावापत्त्यभिमानात् । ५. प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात् । ६. तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् । ७. नाभावप्रामाण्यं प्रमेयासिद्धेः। ८. लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः। ९. असत्यर्थे नाभाव इति चेन्न, अन्यलक्षणोपपत्तेः । १०. तत्सिद्धेरलक्षितेष्वहेतुः । ११. न लक्षणावस्थितापेक्षासिद्धेः । १२. प्रागुत्पत्तेरभावोपपत्तेश्च । १३. विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः । १४. आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च । १५. न घटाभावसामान्यनित्यत्वात् नित्येष्वप्यनित्यवदुपचाराच्च । १६. तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः। १७. सन्तानानुमानविशेषणात्।। १८. कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् नित्येष्वप्यव्यभिचार इति । १९. प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च । २०. तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः । २१. अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् । २२. अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः । २३. अस्पर्शत्वात् । २४. न कर्मानित्यत्वात् । २५. न अणु नित्यत्वात् । २६. सम्प्रदानात् । २७. तदन्तरालानुपलब्धेरहेतुः । २८. अध्यापनादप्रतिषेधः । २९. उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः । ३०. अभ्यासात् । ३१. नान्यत्वेऽप्यभ्यासस्योपचारात् । ३२. अन्यादन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः । ३३. तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः । ३४. विनाशकारणानुपलब्धेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org