________________
१९०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
४६. प्रत्यक्षेणाप्रत्यक्षसिद्धेः। ४७. नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः । ४८. तथेत्युपसंहारादुपमानसिद्धे विशेषः। ४९. शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् । ५०. उपलब्धेरद्विप्रवृत्तित्वात् । ५१. सम्बन्धाच्च। ५२. आप्तोपदेशसामर्थ्याच्छब्दादर्थसंप्रत्ययः । ५३. प्रमाणतोऽनुपलब्धेः। ५४. पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः । ५५. शब्दार्थव्यवस्थानादप्रतिषेधः । ५६. न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य । ५७. जातिविशेषे चानियमात् । ५८. तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः । ५९. न कर्मकर्तृसाधनवैगुण्यात् । ६०. अभ्युपेत्य कालभेदे दोषवचनात् । ६१. अनुवादोपपत्तेश्च । ६२. वाक्यविभागस्य चार्थग्रहणात् । ६३. विध्यर्थवादानुवादवचनविनियोगात् । ६४. विधिविधायकः। ६५. स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः । ६६. विधिविहितस्यानुवचनमनुवादः । ६७. नानुवादपुनरुक्तयोविशेषः शब्दाभ्यासोपपत्तेः । ६८. शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः। ६९. मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् । ॥इति गौतमीयसूत्रपाठे द्वितीयाध्यायस्य प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् १. न चतुष्टयमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् । २. शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानामर्थान्तर
भावाच्चाप्रतिषेधः। ३. अर्थापत्तिप्रमाणमनैकान्तिकत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org