________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
१८
१५. त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः। १६. प्रमेयता च तुला प्रामाण्यवत् । । १७. प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः। १८. तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः। १९. न प्रदीपप्रकाशवत् तत्सिद्धेः । २०. प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् । २१. नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः। २२. दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः । २३. ज्ञानलिङ्गत्वादात्मनो नानवरोधः । २४. तदयौगपद्यलिङ्गत्वाच्च न मनसः । २५. प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् । २६. सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षानिमित्तत्वात् । २७. तैश्चापदेशो ज्ञानविशेषाणाम्। २८. व्याहतत्वादहेतुः। २९. नार्थविशेषप्राबल्यात् । ३०. प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः। ३१. न प्रत्यक्षेण यावत्तावदप्युपलम्भात् । ३२. न चैकदेशोपलब्धिरवयविसद्भावात् । ३३. साध्यत्वादवयविनि सन्देहः । ३४. सर्वाग्रहणमवयव्यसिद्धेः। ३५. धारणाऽऽकर्षणोपपत्तेश्च । ३६. सेनावनवत् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् । ३७. रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् । ३८. न एकदेशवाससादृश्येभ्योऽर्थान्तरभावात् । ३९. वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः । ४०. तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् । ४१. नातीतानागतयोरितरेतारापेक्षासिद्धिः। ४२. वर्तमानाभावे सर्वाग्रहणम्प्रत्यक्षानुपपत्तेः । ४३. कृतताकर्तव्यतोपपत्तेरुभयथा ग्रहणम् । ४४. अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः। ४५. प्रसिद्धसाधादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org