SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८८ विभाग- १, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् ७. यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः । ८. साध्याविशिष्टः साध्यत्वात् साध्यसमः । ९. कालात्ययापदिष्टः कालातीतः । १०. वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । ११. तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छ्लं चेति । १२. अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । १३. सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छ्लम् । १४. धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् । १५. वाक्छलमेवोपचारच्छलं तदविशेषात् । १६. न तदर्थान्तरभावात् । १७. अविशेषे वा किञ्चित्साधर्म्यादेकच्छ्लप्रसङ्गः । १८. साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः । १९. विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । २०. तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् । ॥ इति गौतमीयसूत्रपाठे प्रथमाध्याये द्वितीयमाह्निकम् प्रथमोऽध्यायश्च ॥ अथ द्वितीयोऽध्यायः प्रथममाह्निकम् १. समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः । २. विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च । ३. विप्रतिपत्तौ च सम्प्रतिपत्तेः । ४. अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः । ५. तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः । ६. यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशयेनासंशयो नात्यन्तसंशयो वा । ७. यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः । ८. प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः । ९. पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः । १०. पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः । ११. युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् । १२. त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः । १३. सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधासिद्धिः । १४. तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy