________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
१८७
२३. समानाने कधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्शः संशयः।। २४. यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् । २५. लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः । २६. तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः।। २७. स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् । २८. सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः । २९. समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः। ३०. यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । ३१. अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः। ३२. प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । ३३. साध्यनिर्देशः प्रतिज्ञा। ३४. उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । ३५. तथा वैधात् । ३६. साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् । ३७. तद्विपर्ययाद्वा विपरीतम् । ३८. उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः । ३९. हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । ४०. अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः । ४१. विमृश्यपक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः।
॥इति गौतमीयसूत्रपाठे प्रथमाध्याये प्रथमाह्निकम् ॥
. द्वितीयमाह्निकम् १. प्रमाणतर्क साधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः
पक्षप्रति-पक्षपरिग्रहो वादः। २. यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः। ३. स प्रतिपक्षस्थापनाहीनो वितण्डा। ४. सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः। ५. अनैकान्तिकः सव्यभिचारः। ६. सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ।.
For Personat & Private Use Only
www.jainelibrary.org