SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८६ विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् गौतमीयन्यायसूत्रपाठः (६)॥न्यायदर्शनम् ॥ अथ प्रथमोऽध्यायः प्रथममाह्निकम् १. प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्प वित-ण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निः श्रेयसाधिगमः । २. दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादप वर्गः। ३. प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि। ४. इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेशमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्। ५. अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टञ्च । ६. प्रसिद्धसाधात् साध्यसाधनमुपमानम्। ७. आप्तोपदेशः शब्दः। ८. स द्विविधो दृष्टादृष्टार्थत्वात्। ९. आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्। १०. इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् । ११. चेष्टेन्द्रियार्थाश्रयः शरीरम् । १२. घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः। १३. पृथिव्यापस्तेजो वायुराकाशमिति भूतानि । १४. गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः। १५. बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् । १६. युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । १७. प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः । १८. प्रवर्तनालक्षणा दोषाः । १९. पुनरुत्पत्तिः प्रेत्यभावः । २०. प्रवृत्तिदोषजनितोऽर्थः फलम् । २१. बाधनालक्षणं दुःखम् । २२. तदत्यन्तविमोक्षोऽपवर्गः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy