________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम्
३०. ततः क्लेशकर्मनिवृत्तिः ।
३१. तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयमल्पम् । ३२. ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।
३३. क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ।
३४. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा
चितिशक्तिरिति ।
॥ इति पातञ्जलयोगसूत्रपाठे कैवल्यनिरूपणं नाम चतुर्थः पादः ॥ ॥ समाप्तं च पातञ्जलयोगदर्शनसूत्रपाठः ॥
Jain Education International
For Personal & Private Use Only
१८५
www.jainelibrary.org