________________
१८४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम्
चतुर्थः कैवल्यपादः १. जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः। २. जात्यन्तरपरिणामः प्रकृत्यापूरात् । ३. निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । ४. निर्माणचित्तान्यस्मितामात्रात् । ५. प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ६. तत्र ध्यानजमनाशयः । ७. कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम्। . ८. ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् । ९. जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । १०. तासामनादित्वं चाशिषो नित्यत्वात् । ११. हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः । १२. अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् । १३. ते व्यक्तसूक्ष्मा गुणात्मनः । १४. परिणामैकत्वाद्वस्तुतत्त्वम् । १५. वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः । १६. न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् । १७. तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । १८. सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् । १९. न तत्स्वाभासं दृश्यत्वात् । २०. एकसमये चोभयानवधारणम् । २१. चित्तान्तरदृश्ये बुद्धिबुद्धरतिप्रसङ्गः स्मृतिसङ्करश्च । २२. चितेरप्रतिसंक्रमायास्तदा-कारापत्तौ स्वबुद्धिसंवेदनम् । २३. द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् । २४. तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् । २५. विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः । २६. तदा विवेकनिम्न कैवल्यप्राग्भारं चित्तम् । २७. तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । २८. हानमेषां क्लेशवदुक्तम् । २९. प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org