SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ विभाग - १, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम् २८. चन्द्रे ताराव्यूहज्ञानम् । २९. ध्रुवे तद्गतिज्ञानम् । ३०. नाभिचक्रे कायव्यूहज्ञानम् । ३१. कण्ठकूपे क्षुत्पिपासानिवृत्तिः । ३२. कूर्मनाड्या स्थैर्यम् । ३३. मूर्द्धज्योतिषि सिद्धदर्शनम् । ३४. प्रातिभाद्वा सर्वम् सर्वनिमित्तानपेक्षम् । ३५. हृदये चित्तसंवित् । ३६. सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् । ३७. ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते । ३८. ते समाधावुपसर्गा व्युत्थाने सिद्धयः । ३९. बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरप्रवेशः । ४०. उदानजयाज्जलपङ्ककण्टकादिष्वसङ्गउत्क्रान्तिश्च । ४१. समानजयाज्ज्वलनम् । ४२. श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् । ४३. कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् । ४४. बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । ४५. स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः । ४६. ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च । ४७. रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् । ४८. ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः । ४९. ततो मनोजवित्वं विकर-णभाव: प्रधानजयश्च । ५०. सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । ५१. तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । ५२. स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । ५३. क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । ५४. जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः । ५५. तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । ५६. सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति । ।। इति पातञ्जलयोगसूत्रपाठे विभूतिनिर्देशो नाम तृतीयः पादः ॥ Jain Education International १८३ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy