SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८२ विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम् तृतीयो विभूतिपादः १. देशबन्धश्चित्तस्य धारणा । २. तत्र प्रत्ययैकतानता ध्यानम् । ३. तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । ४. त्रयमेकत्र संयमः । ५. तज्जयात् प्रज्ञालोकः । ६. तस्य भूमिषु विनियोगः । ७. त्रयमन्तरङ्गं पूर्वेभ्यः । ८. तदपि बहिरङ्गं निर्बीजस्य । ९. व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधपरिणामः । १०. तस्य प्रशान्तवाहिता संस्कारात् । ११. सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । १२. शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः । १३. एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । १४. शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । १५. क्रमान्यत्वं परिणामान्यत्वे हेतुः । १६. परिणामत्रयसंयमादतीतानागतज्ञानम् । १७. शब्दार्थप्रत्ययानामितरे तराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् । १८. संस्कार साक्षात्करणात् पूर्वजातिज्ञानम् । १९. प्रत्ययस्य परचित्तज्ञानम् । २०. न च तत् सालम्बनं तस्याविषयीभूतत्वात् । २१. कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् । २२. एतेन शब्दाद्यन्तर्धानमुक्तम् । २३. सोपक्रमं निरुपक्रमञ्च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा । २४. मैत्र्यादिषु बलानि । २५. बलेषु हस्तिबलादीनि । २६. प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । २७. भुवनज्ञानं सूर्ये संयमात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy