SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम् १८१ २९. यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि । ३०. अहिंसा सत्यास्तेयब्रह्मचर्यापरिग्रहा यमः । ३१. जातिदेशकालसमयानवच्छिन्नाः सार्वभौम महाव्रतम्। ३२. शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः। ३३. वितर्कबाधने प्रतिपक्षभावनम् । ३४. वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्या धिमात्रा दुःखज्ञानानन्तफला इति प्रतिपक्षभावनम् । ३५. तत्सन्निधौ वैरत्यागः। ३६. सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । ३७. अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । ३८. ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । ३९. अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । ४०. शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः। ४१. सत्त्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयाऽऽत्मदर्शनयोग्यत्वानि च । ४२. सन्तोषादनुत्तमः सुखलाभः । ४३. कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । ४४. स्वाध्यायादिष्टदेवतासम्प्रयोगः । ४५. समाधिसिद्धिरीश्वरप्रणिधानात्। ४६. स्थिरसुखमासनम्। ४७. प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् । ४८. ततो द्वन्द्वानभिघातः। ४९. तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । ५०. स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । ५१. बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः । ५२. ततः क्षीयते प्रकाशावरणम् । ५३. धारणासु च योग्यता मनसः ५४. स्वविषयासम्प्रयोगाभावे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। ५५. ततः परमा वश्यतेन्द्रियाणाम् । ॥ इति पातञ्जलयोगसूत्रपाठे साधननिर्देशो नाम द्वितीयः पादः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy