________________
१८०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम्
द्वितीयः साधनपादः १. तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः । २. समाधिभावनार्थः क्लेशतनूकरणार्थश्च । ३. अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । ४. अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्। ५. अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । ६. दृग्दर्शनशक्त्योरेकात्मतेवास्मिता। ७. सुखानुशयी रागः। ८. दुःखानुशयी द्वेषः। ९. स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः । १०. ते प्रतिप्रसवहेया: सूक्ष्माः । ११. ध्यानहेयास्तवृत्तयः । १२. क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । १३. सति मूले तद्विपाको जात्यायुर्भोगाः । १४. ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् । १५. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । १६. हेयं दुःखमनागतम्। १७. द्रष्टदृश्ययोः संयोगो हेयहेतुः। १८. प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्। १९. विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । २०. द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । २१. तदर्थं एव दृश्यस्यात्मा। २२. कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । २३. स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः । २४. तस्य हेतुरविद्या। २५. तदभावे संयोगाभावो हानं तद् दृशेः कैवल्यम् । २६. विवेकख्यातिरविप्लवा हानोपायः । २७. तस्य सप्तधा प्रान्तभूमौ प्रज्ञा । २८. योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः।
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org