________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम्
१७९
२६. स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात् । २७. तस्य वाचकः प्रणवः । २८. तज्जपस्तदर्थभावनम् । २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । ३०. व्याधिस्त्यानसंशयप्रमादादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिक
त्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः । ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वास विक्षेपसहभुवः । ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः । ३३. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावना
तश्चित्तप्रसादनम्। ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी । ३६. विशोका वा ज्योतिष्मती । ३७. वीतरागविषयं वा चित्तम् । ३८. स्वजनिद्राज्ञानालम्बनं वा । ३९. यथाभिमतध्यानाद्वा। ४०. परमाणुपरममहत्त्वान्तोऽस्य वशीकारः । ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः। ४२. तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का। ४४. एतयैव समविचारानिर्विचारा च सूक्ष्मविषया व्याख्याता । ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् । ४६. ता एव सबीजः समाधिः । ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः । ४८. ऋतम्भरा तत्र प्रज्ञा । ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् । ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी। ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ।
॥ इति पातञ्जलयोगसूत्रपाठे समाधिनिर्देशो नाम प्रथमः पादः ॥
Jain Education International
for Personal & Private Use Only
www.jainelibrary.org