________________
१७८
विभाग-१, षड्दर्शनसूत्रसंग्रहः - योगदर्शनम्
पातञ्चलयोगसूत्रपाठः (५)॥ योगदर्शनम् ॥
प्रथमः समाधिपादः १. अथ योगानुशासनम्। २. योगश्चित्तवृत्तिनिरोधः। ३. तदा द्रष्टः स्वरूपेऽवस्थानम् । ४. वृत्तिसारुप्यमितरत्र। ५. वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः । ७. प्रत्यक्षानुमानागमाः प्रमाणानि । ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा । ११. अनुभूतविषयाऽसम्प्रमोषः स्मृतिः । १२. अभ्यासवैराग्यभ्यां तन्निरोधः । १३. तत्र स्थितौ यत्नोऽभ्यासः । १४. स तु दीर्घकालनैरन्तर्यसत्कारसेवितोदृढभूमिः। १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यम् । १६. तत्पर पुरुषख्यातेर्गुणवैतृष्ण्यम् । १७. वितर्कविचारानन्दास्मितानुगमात् सम्प्रज्ञातः । १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः । १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् । २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । २१. तीव्रसंवेगानामासन्नः। २२. मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः । २३. ईश्वरप्रणिधानाद्वा। २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः । २५. तत्र निरतिशयं सर्वज्ञबीजम् ।
Nor Personal & Private Use Only
www.jainelibrary.org