________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
१७७
६५. अदृष्टोद्भूतिवत् समानत्वम् । ६६. महतोऽन्यत् । ६७. कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादिर्बीजाङ्करवत् । ६८. अविवेकनिमित्तो वा पञ्चशिखः । ६९. लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । ७०. यद्वा तद्वा तदुच्छित्तिः पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः । ॥ इति कपिलमुनिविरचिते सांख्यसूत्रपाठे षष्ठस्तन्त्राध्यायः समाप्तः ॥
॥समाप्तं च सांख्यदर्शनम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org