________________
१७६
विभाग-१, षड्दर्शनसूत्रसंग्रह; - सांख्यदर्शनम्
३४. श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । ३५. पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत् । ३६. सर्वत्र कार्यदर्शनाद्विभुत्वम्। ३७. गतियोगेऽप्याद्यकारणताहानिरणुवत् । ३८. प्रसिद्धाधिक्यं प्रधानस्य न नियमः । ३९. सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । ४०. अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । ४१. कर्मवैचित्र्यात् सृष्टिवैचित्र्यम् । ४२. साम्यवैषम्याभ्यां कार्यद्वयम् । ४३. विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । ४४. नान्योपसर्पणेऽपि मुक्तोपभोगो निमित्ताभावात् । ४५. पुरुषबहुत्वं व्यवस्थातः । ४६. उपाधिश्चेत् तत्सिद्धौ पुनद्वैतम् । ४७. द्वाभ्यामपि प्रमाणविरोधः। ४८. द्वाभ्यामप्यविरोधान्न पूर्वमुत्तरं च साधकाभावात् । ४९. प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । ५०. जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । ५१. न श्रुतिविरोधो रागिणां वैराग्याय तत्सिद्धेः । ५२. जगत्सत्यत्वमदुष्टकारणजन्यत्वाद् बाधकाभावात् । ५३. प्रकारान्तरासम्भवात् सदुत्पत्तिः । ५४. अहङ्कारः कर्ता न पुरुषः। ५५. चिदवसाना भुक्तिस्तत्कर्मार्जितत्वात् । ५६. चन्द्रादिलोकेऽप्यावृत्तिर्निमित्तसद्भावात् । ५७. लोकस्य नोपदेशात् सिद्धिः पूर्ववत् । ५८. पारम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । ५९. गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाद्भोगदेशकाललाभो व्योमवत् । ६०. अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः। ६१. अदृष्टद्वारा चेदसम्बन्धस्य तदसम्भवाज्जलादिवदकरे । ६२. निगुर्णत्वात् तदसम्भवादहङ्कारधर्मा ह्येते। ६३. विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । ६४. अहङ्कारकर्बधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् ।
Jain Educatiofflinternational
For Personal & Private Use Only
www.jainelibrary.org