________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
१७५
४. न शिलापुत्रवद्धर्मिग्राहकमानबाधात् । ५. अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । ६. यथा दुःखात् क्लेशः पुरुषस्य न तथा सुखादभिलाषः । ७. कुत्रापि कोऽपि सुखीति । ८. तदपि दुःखशबलमिति दुःखपक्षे निःक्षिपन्ते विवेचकाः । ९. सुखलाभाभावादपुरुषार्थत्वमिति चेन्न द्वैविध्यात् । १०. निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः। ११. परधर्मत्वेऽपि तत्सिद्धिरविवेकात् । १२. अनादिरविवेकोऽन्यथा दोषद्वयप्रसक्तेः । १३. न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । १४. प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत् । १५. अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् । १६. प्रकारान्तरासम्भवादविवेक एव बन्धः । १७. न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्तिश्रुतेः । १८. अपुरुषार्थत्वमन्यथा । १९. अविशेषापत्तिरुभयोः। २०. मुक्तिरन्तरायध्वस्तेर्न परः । २१. तत्राप्यविरोधः। २२. अधिकारित्रैविध्यान्न नियमः । २३. दाढार्थमुत्तरेषाम्। २४. स्थिरसुखमासनमिति न नियमः । २५. ध्यानं निर्विषयं मनः । २६. उभयथाप्यविशेषश्चेनैवमुपरागनिरोधाद्विशेषः । २७. निःसङ्गेऽप्युपरागोऽविवेकात् । २८. जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । २९. ध्यानधारणाभ्यासवैराग्यादिभिस्तन्निरोधः । ३०. लयविक्षेपयोावृत्त्येत्याचार्याः । ३१. न स्थाननियमश्चित्तप्रसादात् । ३२. प्रकृतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । ३३. नित्यत्वेऽपि नात्मनो योगात्वाभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org