SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७४ विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम् १०८. न द्रव्यं नियमस्तद्योगात् । १०९. न देशभेदेऽप्यन्योपादानतास्मदादिवन्नियमः । ११०. निमित्तव्यपदेशात् तद्व्यपदेशः । १११. ऊष्मजाण्डजजरायुजोद्भिज्जसांकल्पिकमांसिद्धिकं चेति न __ नियमः। ११२. सर्वेषु पृथिव्युपादानमसाधारण्यात् तद्व्यपदेशः पूर्ववत् । ११३. न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । ११४. भोक्तुरधिष्ठानाद्भोगायतननिर्माणमन्यथा पूतिभावप्रसङ्गात् । ११५. भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्तात् । ११६. समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता। ११७. द्वयोः सबीजमन्यत्र तद्धतिः। ११८. द्वयोरिव त्रयस्यापि दृष्टत्वान्नतु द्वौ । ११९. वासनया न स्वार्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वम् । १२०. एकः संस्कारः क्रियानिवर्तको न तु प्रतिक्रियं संस्कारभेदा, बहुकल्पनाप्रसक्तेः। १२१. न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरुधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । १२२. स्मृतेश्च । १२३. न देहमात्रतः कर्माधिकारित्वं वैशिष्ट्यश्रुतेः । १२४. त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । १२५. न किञ्चिदप्यनुशयिनः।। १२६. न बुद्धयादिनित्यत्वमाश्रयविशेषेऽपि वह्निवत् । १२७. आश्रयासिद्धेश्च । १२८. योगसिद्धयोऽप्यौषधादिसिद्धिवन्नापलपनीयाः । १२९. न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च । ॥इति सांख्यसूत्रपाठे परपक्षनिर्जयाख्यः पञ्चमोऽध्यायः ॥ ___ अथ तन्त्राख्यः षष्ठोऽध्यायः १. अस्त्यात्मा नास्तित्वसाधनाभावात् । २. देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् । ३. षष्ठीव्यपदेशादपि। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy