SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम् ७८. न सर्वोच्छित्तिरपुरुषार्थत्वादिदोषात् । ७९. एवं शून्यमपि । ८०. संयोगाश्च वियोगान्ता इति न देशादिलाभोऽपि । ८१. न भागियोगो भागस्य । ८२. नाणिमादियोगो ऽप्यवश्यम्भावित्वात् तदुच्छित्तेरितरयोगवत् । ८३. नेन्द्रादिपदयोगोऽपि तद्वत् । ८४. न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । ८५. न षट्पदार्थनियमस्तद्बोधान्मुक्तिः । ८६. षोडशादिष्वप्येवम् । ८७. नाणुनित्यता तत्कार्यत्वश्रुतेः । ८८. न निर्भागत्वं कार्यत्वात् । ८९. न रुपनिबन्धात् प्रत्यक्षनियमः । ९०. न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगाच्च ९१. अनित्यत्वेऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य । ९२. न तदपलापस्तस्मात् । ९३. नान्यनिवृतिरूपत्वं भावप्रतीतेः । ९४. न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धेः । ९५. निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात् तदुपलब्धेः । ९६. न संज्ञासंज्ञिसम्बन्धोऽपि । ९७. न सम्बन्धनित्यतोभयानित्यत्वात् । ९८. नातः सम्बन्धो धर्मिग्राहकप्रमाणबाधात् । ९९. न समवायोऽस्ति प्रमाणाभावात् । १००. उभयत्राऽप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । १०१. नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । १०२. न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । १०३. न स्थूलमिति नियम आतिवाहिकस्यापि विद्यमानत्वात् । १०४. नाप्राप्तप्रकाशकत्व - मिन्द्रियाणामप्राप्तेः सर्वप्राप्तेर्वा । १०५. न तेजोऽपसर्पणात् तैजसं चक्षुर्वृत्तितस्तत्सिद्धेः । १०६. प्राप्तायार्थप्रकाशलिङ्गाद् वृत्तिसिद्धिः । Jain Education International तत्त्वान्तरं । For Personal & Private Use Only १७३ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy