________________
१७२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
४८. नापौरुषेयत्वान्नित्यत्वमङ्करादिवत् । ४९. तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । ५०. यस्मिन्नदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयम् । ५१. निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यम् । ५२. नासतः ख्यानं नृश्रृङ्गवत् । ५३. न सतो बाधदर्शनात् । ५४. नानिर्वचनीयसरू तदभावात् । ५५. नान्यथाख्यातिः स्ववचोव्याघातात् । ५६. सदसत्ख्यातिर्बाधाबाधात् । ५७. प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः ५८. न शब्दनित्यत्वं कार्यताप्रतीतेः । ५९. पूर्वसिद्धसत्त्वस्याभिव्यक्तिीपेनेव घटस्य । ६०. सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनम् । ६१. नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः । ६२. नानात्मनापि प्रत्यक्षबाधात् । ६३. नोभाभ्यां तेनैव। ६४. अन्यपरत्वमविवेकानां तत्र । ६५. नात्माविद्या नोभयं जगदुपादानकारणं निःसङ्गत्वात् । ६६. नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । ६७. दुःखनिवृत्तेर्गौणः। ६८. विमुक्तिप्रशंसा मन्दानाम्। ६९. न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा । ७०. सक्रियत्वाद् गतिश्रुतेः। ७१. न निर्भागत्वं तद्योगाद् घटवत् । ७२. प्रकृतिपुरुषयोरन्यत् सर्वमनित्यम् । ७३. न भागलाभो भागिनो निर्भागत्वश्रुतेः ७४. नानंदाभिव्यक्तिर्मुक्तिनिर्धर्मत्वात्। ७५. न विशेषगुणोच्छित्तिस्तद्वत् । ७६. न विशेषगतिर्निष्क्रियस्य । ७७. नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org