________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
१७१
१७. अबाधे नैष्फल्यम् । १८. विद्याबाध्यत्वे जगतोऽप्येवम् । १९. तद्रूपत्वे सादित्वम् । २०. न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । २१. श्रुतिलिङ्गादिभिस्तत्सिद्धिः। २२. न नियमः प्रमाणान्तरावकाशात् । २३. उभयत्राप्येवम्। २४. अर्थात् सिद्धिश्चेत् समानमुभयोः । २५. अन्तःकरणधर्मत्वं धर्मादीनाम् । २६. गुणादीनां च नात्यन्तबाधः । २७. पञ्चावयवयोगात् सुखसंवित्तिः । २८. न सकृद्ग्रहणात् सम्बन्धसिद्धिः। २९. नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । ३०. न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तैः । ३२. आधेयशक्तियोग इति पंचशिखः । ३३. न स्वरूपशक्तिनियमः पुनर्वादप्रसक्तेः । ३४. विशेषणानर्थक्यप्रसक्तेः। ३५. पल्लवादिष्वनुपपत्तेश्च । ३६. आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । ३७. वाच्यवाचकभावः सम्बन्धः शब्दार्थयोः । ३८. त्रिभिः सम्बन्धसिद्धिः। ३९. न कार्ये नियम उभयथा दर्शनात् । ४०. लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । ४१. न त्रिभिरपौरुषेयत्वाद् वेदस्य तदर्थस्यातीन्द्रियत्वात् । ४२. न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । ४३. निजशक्तिर्युत्पत्त्या व्यवच्छिद्यते । ४४. योग्यायोग्येषु प्रतीतिजनकत्वात् तत्सिद्धिः । ४५. न नित्यत्वं वेदानां कार्यत्वश्रुतेः । ४६. न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । ४७. मुक्ताऽमुक्तयोरयोग्यत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org