________________
१७०
_ विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
२१. अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव । २२. इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । २३. विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । २४. लब्धातिशययोगाद्वा तद्वत् । २५. न कामचारित्वं रागोपहते शुकवत् । २६. गुणयोगाद् बद्धः शुकवत् । २७. न भोगाद्रागशान्तिर्मुनिवत्। २८. दोषदर्शनादुभयोः। २९. न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् । ३०. नाभासमात्रमपि मलिनदर्पणवत्। ३१. न तज्जस्यापि तद्रूपता पङ्कजवत् । ३२. न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्धिवदुपास्यसिद्धिवत् ।
॥इति कापिलसूत्रपाठे आख्यायिकाख्यश्चतुर्थोऽध्यायः ।।
अथ परपक्षनिर्जयाख्यः पञ्चमोऽध्यायः १. मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति । २. नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । ३. स्वोपकारादधिष्ठानं लोकवत् । ४. लौकिकेश्वरवदितरथा । ५. पारिभाषिको वा। ६. न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । ७. तद्योगेऽपि न नित्यमुक्तः । ८. प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः। ९. सत्तामात्राच्चेत् सर्वैश्वर्यम् । १०. प्रमाणाभावान्न तत्सिद्धिः। ११. सम्बन्धाभावान्नानुमानम्। १२. श्रुतिरपि प्रधानकार्यत्वस्य । १३. नाविद्याशक्तियोगो निःसङ्गस्य । १४. तद्योगे तत्सिद्धावन्योन्याश्रयत्वम् । १५. न बीजाङ्करवत् सादिसंसारश्रुतेः । १६. विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org