________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
७७. बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः । ७८. जीवन्मुक्तश्च। ७९. उपदेश्योपदेष्टुत्वात् तत्सिद्धिः । ८०. श्रुतिश्च। ८१. इतरथान्धपरम्परा । ८२. चक्रभ्रमणवद्धृतशरीरः। ८३. संस्कारलेशतस्तत्सिद्धिः। ८४. विवेकानिःशेषदुःखनिवृत्तौ कृतकृत्यता नेतरान्नेतरात् ।
॥ इति कापिलसूत्रपाठे वैराग्यख्यस्तृतीयोऽध्यायः ॥
अथ आख्यायिकाख्यश्चतुर्थोऽध्यायः १. राजपुत्रवत् तत्त्वोपदेशात् । २. पिशाचवदन्यार्थोपदेशेऽपि । ३. आवृतिरसकृदुपदेशात् । ४. पितापुत्रवदुभयोर्दृष्टत्वात् । ५. श्येनवत् सुखदुःखी त्यागवियोगाभ्याम् ६. अहिनिलयनीवत् । ७. छिन्नहस्तवद्वा। ८. असाधनानुचिन्तनं बन्धाय भरतवत् । ९. बहुभिर्योगे विरोधो रागादिभिः कुमारीशङ्खवत् । १०. द्वाभ्यामपि तथैव। ११. निराशः सुखी पिङ्गलावत् । १२. अनारम्भेऽपि परगृहे सुखी सर्पवत् । १३. बहुशास्त्रगुरुपासनेऽपि सारादानं षट्पदवत् । १४. इषुकारवनैकचित्तस्य समाधिहानिः । १५. कृतनियमलङ्घनादानर्थक्यं लोकवत् । १६. तद्विस्मरणेऽपि भेकीवत् । १७. नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । १८. दृष्टस्तयोरिन्द्रस्य । १९. प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिर्बहुकालात् तद्वत् ।
२० नाल Jain Education internauona
Yersonal & Private Use Only
www.jainelibrary.org