________________
१६८
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
४७. आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिराविवेकात् । ४८. ऊर्ध्वं सत्त्वविशाला। ४९. तमोविसाला मूलतः । ५०. मध्ये रजोविशाला। ५१. कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् । ५२. आवृत्तिस्तत्राप्युत्तरोत्तरयोनियोगाद्धयः । ५३. समानं जरामरणादिजं दुःखम् । ५४. न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् । ५५. अकार्यत्वेऽपि तद्योगः पारवश्यात् । ५६. स हि सर्ववित् सर्वकर्ता। ५७. ईदृशेश्वरसिद्धिः सिद्धा। ५८. प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वादुष्ट्रकुङ्कमवहनवत् । ५९. अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य । ६०. कर्मवद् दृष्टेर्वा कालादेः । ६१. स्वभावाच्चेष्टितमनभिसन्धानाद् भृत्यवत् । ६२. कर्माकृष्टेर्वानादितः। ६३. विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके । ६४. इतर इतरवत् तदोषात् । ६५. द्वयोरेकतरस्य वौदासीन्यमपवर्गः । ६६. अन्यसृष्ट्युपरागेऽपि न विरज्यते प्रबुद्धरज्जुतत्त्वस्यैवोरगः । ६७. कर्मनिमित्तयोगाच्च । ६८. नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तम् । ६९. नर्तकीवत् प्रवृत्तस्यापि निवृत्तिश्चारितार्थ्यात् । ७०. दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । ७१. नैकान्ततो बन्धमोक्षौ पुरुषस्याविवेकादृते । ७२. प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् । ७३. रूपैः सप्तभिरात्मानं बध्नाति प्रधानं कोशकारवद्विमोचयत्येकरूपेण । ७४. निमित्तत्वमविवेकस्य न दृष्टहानिः । ७५. तत्त्वाभ्यासान्नेति नेतीति त्यागाद्विवेकसिद्धिः। ७६. अधिकारिप्रभेदान्न नियमः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org