SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम् १७. पाञ्चभौतिको देहः । १८. चातुर्भीतिकमित्येके । १९. एकभौतिकमित्यपरे । २०. न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । २१. प्रपञ्चमरणाद्यभावश्च । २२. मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहित्ये तदुद्भवः । २३. ज्ञानान्मुक्तिः । २४. बन्धो विपर्ययात् । २५. नियतकारणत्वान्न समुच्चयविकल्पौ । २६. स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । २७. इतरस्यापि नात्यन्तिकम् । २८. सङ्कल्पितेऽप्येवम् । २९. भावनोपचयाच्छुद्धस्य सर्वं प्रकृतिवत् । ३०. रागोपहतिर्ध्यानम् । ३१. वृत्तिनिरोधात् तत्सिद्धिः । ३२. धारणासनस्वकर्मणा तत्सिद्धिः । ३३. निरोधश्छर्दिविधारणाभ्याम् । ३४. स्थिरसुखमासनम् । ३५. स्वकर्म स्वाश्रमविहितकर्मानुष्ठानम् । ३६. वैराग्यादभ्यासाच्च । ३७. विपर्ययभेदाः पञ्च । ३८. अशक्तिरष्टाविंशतिधा तु । ३९. तुष्टिर्नवधाः । ४०. सिद्धिरष्टधा । ४१. अवान्तरभेदाः पूर्ववत् । ४२. एवमितरस्याः । ४३. आध्यात्मिकादिभेदान्नवधा तुष्टिः । ४४. ऊहादिभिः सिद्धिः । ४५. नेतरादितरहानेन विना । ४६. दैवादिप्रभेदाः । Jain Education International For Personal & Private Use Only १६७ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy