________________
१९४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
१९. पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः । २०. पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः। २१. न उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् । २२. प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् । २३. अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् । २४. न अन्यत्र प्रवृत्यभावात् । २५. वीतरागजन्मादर्शनात् । २६. सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः । २७. न सङ्कल्पनिमित्तत्वाद्रागादीनाम् । २८. पार्थिवं गुणान्तरोपलब्धेः । २९. श्रुतिप्रामाण्याच्च । ३०. कृष्णसारे सत्युपलम्भाव्यतिरिच्य चोपलम्भात् संशयः । ३१. महदणुग्रहणात्। ३२. रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्। ३३. तदनुपलब्धेरहेतुः । ३४. नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः । ३५. द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः। ३६. अनेकद्रव्यसमवायात् रुपविशेषाच्च रूपोपलब्धिः । ३७. कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः। ३८. अव्यभिचाराच्च प्रतिघातो भौतिकधर्मः ३९. मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ।। ४०. न रात्रावप्यनुपलब्धेः ४१. बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ४२. अभिव्यक्तौ चाभिभवात् । ४३. नक्तञ्चरनयनरश्मिदर्शनाच्च । ४४. अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः । ४५. न कुड्यान्तरितानुपलब्धेरप्रतिषेधः । ४६. अप्रतिघातात् सन्निकर्षोपपत्तिः । ४७. आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् । ४८. नेतरेतरधर्मप्रसङ्गात् । ४९. आदर्शोदकयोः प्रसादस्वाभाव्यद्रूपोपलब्धि-वत्तदुपलब्धिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org