________________
१६४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
१४३. अधिष्टानाच्चेति । १४४. भोक्तृभावात् । १४५. कैवल्यार्थं प्रवृत्तेः । १४६. जडप्रकाशायोगात् प्रकाशः । १४७. निर्गुणत्वान्न चिद्धर्मा । १४८. श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात् । १४९. सुषुप्त्याद्यसाक्षित्वम् । १५०. जन्मादिव्यवस्थातः पुरुषबहुत्वम् । १५१. उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिः । १५२. उपाधिर्भिद्यते न तु तद्वान् । १५३. एवमेकत्वेन परिवर्त्तमानस्य न विरुद्धधर्माध्यासः। १५४. अन्यधर्मत्वेऽपि नारोपात् तत्सिद्धिरेकत्वात् । १५५. नाद्वैतश्रुतिविरोधो जातिपरत्वात् । १५६. विदितबन्धकारणस्य दृष्ट्या तद्रूपम् । १५७. नान्धाऽदृष्ट्या चक्षुष्मतामनुपलम्भः । १५८. वामदेवादिर्मुक्तो नाद्वैतम् । १५९. अनादावद्य यावदभावाद्भविष्यदप्येवम् १६०. इदानीमिव सर्वत्र नात्यन्तोच्छेदः । १६१. व्यावृत्तो भूयरूपः। १६२. साक्षात्सम्बन्धात् साक्षित्वम्। १६३. नित्यमुक्तत्वम् । १६४. औदासीन्यं चेति । १६५. उपरागात् कर्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात् ।
॥ इति कापिलसूत्रपाठे विषयाध्यायः प्रथमोऽध्यायः ।।
अथ प्रधानकार्याख्यो द्वितीयोऽध्यायः १. विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । २. विरक्तस्य तत्सिद्धेः। ३. न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया बलवत्त्वात् । ४. बहुभृत्यवद्वा प्रत्येकम् । ५. प्रकृतिवास्तवे च पुरुषस्याऽयाससिद्धिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org