________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
६. कार्यतस्तत्सिद्धेः। ७. चेतनोद्देशानियमः कण्टकमोक्षवत् । ८. अन्ययोगेऽपि तत्सिद्विर्नाञ्जस्येनायोदाहवत् । ९. रागविरागयोर्योगः सृष्टिः । १०. महदादिक्रमेण पञ्चभूतानाम् । ११. आत्मार्थत्वात् सृष्टेनॆषामात्मार्थ आरम्भः। १२. दिक्कालावाकाशादिभ्यः । १३. अध्यवसायो बुद्धिः। १४. तत्कार्यं धर्मादिः। १५. महदुपरागाद्विपरीतम्। १६. अभिमानोऽहङ्कारः। १७. एकादश पञ्चतन्मात्रं यत्कार्यम् । १८. सात्त्विकमेकादशकं प्रवर्तते वैकृतादहङ्कारात् । १९. कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम् । २०. आहङ्कारिकत्वश्रुतेर्न भौतिकानि । २१. देवतालयश्रुति रम्भकस्य । २२. तदुत्पत्तिश्रुतेविनाशदर्शनाच्च । २३. अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठानम् २४. शक्तिभेदेऽपि भेदसिद्धौ नैकत्वम् । २५. न कल्पनाविरोधः प्रमाणदृष्टस्य । २६. उभयात्मकं मनः। २७. गुणपरिणामभेदान्नानात्वमवस्थावत् । २८. रूपादिरममलान्त उभयोः । २९. द्रष्टुत्वादिरात्मनः करणत्वमिन्द्रियाणाम् । ३०. त्रयाणां स्वालक्षण्यम् । ३१. सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । ३२. क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः। ३३. वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । ३४. तन्निवृतावुपशान्तोपरागः स्वस्थः । ३५. कुसुमवच्च मणिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org