________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
१६३
११३. तथाप्येकतरदृष्ट्या एकतरसिद्ध पलापः । ११४. त्रिविधविरोधापत्तेः। ११५. नासदुत्पादो नृशृङ्गवत् । ११६. उपादाननियमात् । ११७. सर्वत्र सर्वदा सर्वासम्भवात् । ११८. शक्तस्य शक्यकरणात् । ११९. कारणभावाच्च । १२०. न भावे भावयोगश्चेत् । १२१. नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । १२२. नाशः कारणलयः । १२३. पारम्पर्यतोऽन्वेषणाद् बीजाङ्करवत् । १२४. उत्पत्तिवद्वा दोषः । १२५. हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । १२६. आञ्जस्यादभेदतो वा गुणसामान्यादेस्तत्सिद्धिः प्रधानव्यपदेशाद्वा । १२७. त्रिगुणाचेतनत्वादि द्वयोः । १२८. प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योन्यं वैधर्म्यम् । १२९. लघ्वादिधर्मैः अन्योन्यं साधर्म्य वैधयं च गुणानाम् । १३०. उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् । १३१. परिमाणात् । १३२. समन्वयात् । १३३. शक्तितश्चेति । १३४. तद्धाने प्रकृतिः पुरुषो वा । १३५.तयोरन्यत्वे तुच्छत्वम् । १३६. कार्यात् कारणानुमानं तत्साहित्यात् । १३७. अव्यक्तं त्रिगुणाल्लिङ्गात् । १३८. तत्कार्यतस्तत्सिद्धे पलापः । १३९. सामान्येन विवादाभावाद्धर्मवन्न साधनम् । १४०. शरीरादिव्यतिरिक्तः पुमान् । १४१. संहतपरार्थत्वात् । १४२. त्रिगुणादिविपर्ययात् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org