________________
१६२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
८४. तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः । ८५. दुःखादुःखं जलाभिषेकवन्न जाड्यविमोकः । ८६. काम्येऽकाम्येऽपि साध्यत्वाविशेषात् । ८७. निजमुक्तस्य बन्धध्वं-समानं परं न समानत्वम् । ८८. द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्
तत् त्रिविधं प्रमाणं। ८९. त्रिविधं प्रमाणम् तत्सिद्धौ सर्वसिद्धेर्नाधिक्यसिद्धिः । ९०. यत् सम्बद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षम् । ९१. योगिनामबाह्यप्रत्यक्षत्वान्न दोषः । ९२. लीनवस्तुलब्धातिशयसम्बन्धाद्वा दोषः । ९३. ईश्वरासिद्धेः। ९४. मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः। ९५. उभयथाप्यसत्करत्वम् । ९६. मुक्तात्मनः प्रशंसा उपासना सिद्धस्य वा ९७. तत्सन्निधानादधिष्ठातृत्वं मणिवत् । ९८. विशेषकार्येष्वपि जीवानाम् । ९९. सिद्धरूपबोद्धृत्वाद् वाक्यार्थोपदेशः। १००. अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवदधिष्ठातृत्वम् । १०१. प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानम् । १०२. आप्तोपदेशः शब्दः।। १०३. उभयसिद्धिः प्रमाणात् तदुपदेशः । १०४. सामान्यतो दृष्टादुभयसिद्धिः । १०५. चिदवसानो भोगः। १०६. अकर्तुरपि फलोपभोगोऽन्नाद्यवत् । १०७. अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । १०८. नोभयं च तत्त्वाख्याने । १०९. विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । ११०. सौक्ष्यात्तदनुपलब्धिः । १११. कार्यदर्शनात्तदुपलब्धेः । ११२. वादिविप्रतिपत्तेस्तदसिद्धिरिति चेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org