________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
१६१
५६. विपर्ययाद् बन्धः। ५७. नियतकारणात् तदुच्छित्तिर्ध्वान्तवत् । ५८. प्रधानाविवेकादन्याविवेकस्य तद्धाने हानम् । ५९. वाङ्मात्रं न तु तत्त्वं चित्तस्थितेः । ६०. युक्तितोऽपि न बाध्यते दिङ्मूढवदपरोक्षादृते । ६१. अचाक्षुषाणामनुमानेन बोधो धूमादिभिरिव वह्नः । ६२. सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽङ्कारोऽहङ्कारात्
पञ्च तन्मात्राण्युभयमिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि पुरुष इति
पञ्चविंशतिर्गणः। ६३. स्थूलात् पञ्चतन्मात्रस्य । ६४. बाह्याभ्यन्तराभ्यां तैश्चाऽहङ्कारस्य । ६५. तेनान्तःकरणस्य । ६६. ततः प्रकृतेः। ६७. संहतपरार्थत्वात् पुरुषस्य । ६८. मूले मूलाभावादमूलं मूलम् । ६९. पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञामात्रम्। ७०. समानः प्रकृतेर्द्वयोः। ७१. अधिकारित्रैविध्यान्न नियमः । ७२. महदाख्यमाद्यं कार्यं तन्मनः । ७३. चरमोऽहङ्कारः। ७४. तत्कार्यत्वमुत्तरेषाम् । ७५. आद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत् । ७६. पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः । ७७. परिच्छिन्नं न सर्वोपादानम् । ७८. तदुत्पत्तिश्रुतेश्च । ७९. नाऽवस्तुनो वस्तुसिद्धिः । ८०. अबाधाददुष्टकारणजन्यत्वाच्च नावस्तुत्वम् । ८१. भावे तद्योगेन तत्सिद्धिरभावे तदभावात् कुतस्तरां तत्सिद्धिः। ८२. न कर्मण उपदानत्वाऽयोगात् । ८३. नानुश्रविकादपि तत्सिद्धिः साध्यत्वेनावृत्तियोगादपुरुषार्थत्वम् ।
Jain Educatio International
For Personal & Private Use Only
www.jainelibrary.org