________________
१६०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम्
२७. नानादिविषयोपरागनिमित्तकोऽप्यस्य । २८. न बाह्याभ्यन्तरयोरुपरज्योपरञ्जकभावोऽपि देशव्यवधानात् त्रुजस्थ
पाटलिपुत्रस्थयोरिव । २९. द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । ३०. अदृष्टवशाच्चेत् । ३१. न द्वयोरेककालायोगादुपकार्योपकारकभावः । ३२. पुत्रकर्मवदिति चेत् । ३३. नास्ति हि तत्र स्थिर एकात्मा यो गर्भाधानादिना संस्क्रियेत । ३४. स्थिरकार्यासिद्धेः क्षणिकत्वम्। ३५. न प्रत्यभिज्ञाबाधात् । ३६. श्रुतिन्यायविरोधाच्च । ३७. दृष्टान्तऽसिद्धेश्च। ३८. युगपज्जायमानयोर्न कार्यकारणभावः । ३९. पूर्वापाये उत्तरायोगात् । ४०. तद्भावे तदयोगादुभयव्यभिचारादपि न । ४१. पूर्वभावमात्रे न नियमः । ४२. न विज्ञानमात्रं बाह्यप्रतीतेः । ४३. तदभावे तदभावाच्छून्यं तर्हि । ४४. शून्यं तत्त्वं भावो विनश्यति वस्तुधर्मत्वाद्विनाशस्य । ४५. अपवादमात्रमबुद्धानाम्। ४६. उभयपक्षसमानक्षेमत्वादयमपि । ४७. अपुरुषार्थत्वमुभयथा। ४८. न गतिविशेषात् । ४९. निष्क्रियस्य तदसम्भवात् । ५०. मूर्तत्वाद्घटादिवत्समानधर्मापत्तावपसिद्धान्तः । ५१. गतिश्रुतिरप्युपाधियोगादाकाशवत् । ५२. न कर्मणाऽप्यतद्धर्मत्वात् । ५३. अतिप्रसक्तिरन्यधर्मत्वे । ५४. निर्गुणादिश्रुतिविरोधश्चेति । ५५. तद्योगोऽप्यविवेकान्न समानत्वम्।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org