SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - सांख्यदर्शनम् कपिलसांख्यसूत्रपाठः (४)॥ सांख्यदर्शनम् ॥ अथ विषयाख्यः प्रथमोऽध्यायः प्रथमः पादः १. अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः। २. न दृष्टात् तत्सिद्धिर्निवृत्तेरप्यनुवृत्तिदर्शनात् । ३. प्रात्यहिकक्षुत्प्रतीकारवत् तत्प्रतीकारचेष्टनात् पुरुषार्थत्वम् । ४. सर्वासम्भवात् सम्भवेऽपि सत्त्वासम्भवाद्धेयः प्रमाणकुशलैः । ५. उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । ६. अविशेषश्चोभयोः। ७. न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ८. स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम् । ९. नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः । १०. शुक्लपटवद् बीजवच्चेत् । ११. शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः। १२. न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । १३. न देशयोगतोऽप्यस्मात् । १४. नावस्थातो देहधर्मत्वात् तस्याः। १५. असङ्गोऽयं पुरुष इति । १६. न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च । १७. विचित्रभोगानुपपत्तिरन्यधर्मत्वे । १८. प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यम् । १९. न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते । २०. नाविद्यातोऽप्यवस्तुना बन्धायोगात् । २१. वस्तुत्वे सिद्धान्तहानिः । २२. विजातीयद्वैतापत्तिश्च । २३. विरुद्धोभयरूपा चेत् । २४. न तादृक्पदार्थाप्रतीतेः। २५. न वयं षट्पदार्थवादिनो वैशेषिकादिवत् । २६. अनियतत्वेऽपि नायौक्तिकस्य संग्रहोऽन्यथा बालोन्मत्तादिसमत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy