________________
१५८
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदशनम्
३. आत्मा प्रकरणात् । ४. अविभागेनैव दृष्टत्वात् । ५. ब्राह्मण जैमिनिरुपन्यासादिभ्यः । ६. चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः । ७. एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः । ८. सङ्कल्पादेव तु तच्छ्रुतेः । ९. अत एव चानन्याधिपतिः । १०. अभावं बादरिराह ह्येवम् । ११. भावं जैमिनिर्विकल्पामननात् । १२. द्वादशाहवदुभयविधं बादरायणोऽतः । १३. तन्वभावे सन्ध्यवदुपपद्यते । १४. भावे जाग्रद्वत्। १५. प्रदीपवदावेशस्तथा हि दर्शयति । १६. स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि । १७. जगद्व्यापास्वज प्रकरणादसन्निहितत्वाच्च । १८. प्रत्यक्षोपदेशादिति चेन्न आधिकारिकमण्डलस्थोक्तेः। १९. विकारवर्ति च तथाहि स्थितिमाह। २०. दर्शयतश्चैवं प्रत्यक्षानुमाने । २१. भोगमात्रसाम्यलिङ्गाच्च । २२. अनावृत्तिः शब्दादनावृत्तिः शब्दात् । ॥ इति वैयासिकब्रह्मसूत्रपाठे चतुर्थाध्यायस्य चतुर्थः पादः चतुर्थोऽध्यायश्च ॥
॥ समाप्तं च वेदान्तदर्शनम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org