________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१५७
१५. तानि परे तथा ह्याह। १६. अविभागो वचनात् । १७. तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति
योगाच्च हार्दानुगृहीतः शताधिकया। १८. रश्म्यनुसारी। १९. निशि नेति चेन्न सम्बन्धात् यावद्देहभावित्वाद्दर्शयति च । २०. अतश्चायनेऽपि हि दक्षिणे। २१. योगिनः प्रति च स्मर्य्यते स्मार्ते चैते। ॥इति वैयासिकब्रह्मसूत्रपाठे चतुर्थाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. अचिरादिना तत्प्रथितेः। २. वायुमब्दादविशेषविशेषाभ्याम् । ३. तडितोऽधिवरुणः सम्बन्धात् । ४. आतिवाहिकस्तल्लिङ्गात् । ५. उभयव्यामोहात् तत्सिद्धेः। ६. वैद्युतेनैव ततस्तच्छ्रुतेः । ७. कार्य वादरिरस्य गत्युपपत्तेः । ८. विशेषितत्वाच्च । ९. सामीप्यात्तु तद्व्यपदेशः। १०. कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । ११. स्मृतेश्च। १२. परं जैमिनिर्मुख्यत्वात् । १३. दर्शनाच्च । १४. न च कार्ये प्रतिपत्त्यभिसन्धिः । १५. अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च । १६. विशेषञ्च दर्शयति । ॥इति वैयासिकब्रह्मसूत्रपाठे चतुर्थाध्यायस्य तृतीयः पादः ।।
चतुर्थः पादः १. सम्पद्याविर्भावः स्वेन शब्दात् । २. मुक्तः प्रतिज्ञानात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org