________________
१५६
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
६. आदित्यादिमतयश्चाङ्गं उपपत्तेः । ७. आसीनः सम्भवात् । ८. ध्यानाच्च । ९. अचलत्वं चापेक्ष्य । १०. स्मरन्ति च । ११. यत्रैकाग्रता तवाविशेषात् । १२. आप्रायणात् तत्रापि हि दृष्टम् । १३. तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात् । १४. इतरस्याप्येवमसंश्लेषः पाते तु । १५. अनारब्धकार्ये एव तु पूर्वे तदवधेः । १६. अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । १७. अतोऽन्यापि ह्येकेषामुभयोः । १८. यदेव विद्ययेति हि। १९. भोगेन त्वितरे क्षपयित्वा सम्पद्यते । ॥ इति वैयासिकब्रह्मसूत्रपाठे चतुर्थाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः १. वाङ्मनसि दर्शनाच्छब्दाच्च । २. अत एव च सर्वाण्यनु । ३. तन्मनः प्राण उत्तरात् । ४. सोऽध्यक्षे तदुपगमादिभ्यः । ५. भूतेषु तत्श्रुतेः। ६. नैकस्मिन् दर्शयतो हि। ७. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य । ८. तदापीते संसारव्यपदेशात् । ९. सूक्ष्म प्रमाणतश्च तथोपलब्धेः । १०. नोपमर्दैनातः। ११. अस्यैव चोपपत्तेरेष ऊष्मा। १२. प्रतिषेधादिति चेन्न शारीरात् । १३. स्पष्टो ह्यकेषाम् । १४. स्म र्य्यते च ।
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org