________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१५५
-
३०. अपि च स्मर्यते। ३१. शब्दश्चातोऽकामकारे । ३२. विहितत्वाच्चाश्रमकर्मापि । ३३. सहकारित्वेन च । ३४. सर्वथापि तु त एवोभयलिङ्गात् । ३५. अनभिभवं च दर्शयति । ३६. अन्तरा चापि तु तद्दष्टेः । ३७. अपि च स्मर्य्यते । ३८. विशेषानुग्रहश्च। ३९. अतस्त्वितरज्यायो लिङ्गाच्च । ४०. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः । ४१. न चाधिकारिकमपि पतनानुमानात् तदयोगात् । ४२. उपपूर्वमति त्वेके भावमशनवत् तदुक्तम् । ४३. बहिस्तूभयथापि स्मृतेराचाराच्च । ४४. स्वामिनः फलश्रुतेरित्यात्रेयः । ४५. आत्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते। ४६. श्रुतेश्च। ४७. सहकार्यन्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवत् । ४८. कृतस्नभावात्तु गृहिणोपसंहारः। ४९. मौनवदितरेषामप्युपदेशात् । ५०. अनाविष्कुर्वन्नन्वयात् । । ५१. एहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ५२. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । ॥ इति वैयासिकब्रह्मसूत्रपाठे तृतीयाध्यायस्य चतुर्थः पादः समाप्तश्च तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः प्रथमः पादः १. आवृत्तिरसकृदुपदेशात् । २. लिङ्गाच्च । ३. आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ४. न प्रतीके न हि सः। ५. ब्रह्मदृष्टिरुत्कर्षात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org