SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५४ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम् चतुर्थः पादः १. पुरुषार्थोऽतः शब्दादिति बादरायणः । २. शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः । ३. आचारदर्शनात् । ४. तच्छृतेः । ५. समन्वारम्भणात्। ६. तद्वतो विधानात् । ७. नियमाच्च । ८. अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ९. तुल्यं तु दर्शनम्। १०. असार्वत्रिकी। ११. विभागः शतवत् । १२. अध्ययनमात्रवतः । १३. नाविशेषात् । १४. स्तुतयेऽनुमतिर्वा । १५. कामकारेण चैके। १६. उपमर्दञ्च। १७. ऊर्ध्वरेतःसु च शब्दे हि। १८. परामर्श जैमिनिरचोदना चापवदिति हि । १९. अनुष्ठेयं बादरायणः साम्यश्रुतेः। २०. विधिर्वा धारणवत् । २१. स्तुतिमात्रमुपादानादिति चेन्न अपूर्वत्वात् २२. भावशब्दाच्च । २३. पारिप्लवार्था इति चेन्न विशेषितत्वात् । २४. तथा चैकवाक्यतोपबन्धात् । २५. अत एव चाग्नीन्धनाद्यनपेक्षा । २६. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । २७. शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् । २८. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । २९. अबाधाच्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy