________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१९. अम्बुदवदग्रहणात्तु न तथात्वम् । २०. वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्। २१. दर्शनाच्च । २२. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । २३. तदव्यक्तमाह हि। २४. अपि च संराधने प्रत्यक्षानुमानाभ्याम् । २५. प्रकाशादिवच्चावैशेष्यं, प्रकाशश्च कर्मण्यभ्यासात् । २६. अतोऽनन्तेन तथा हि लिङ्गम् । २७. उभयव्यपदेशात्त्वहिकुण्डलवत् । २८. प्रकाशाश्रयवद्वा तेजस्त्वात् । २९. पूर्ववद्वा। ३०. प्रतिषेधाच्च । ३१. परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । ३२. सामान्यात् तु। ३३. बुद्ध्यर्थः पादवत् । ३४. स्थानविशेषात् प्रकाशादिवत् । ३५. उपपत्तेश्च । ३६. तथान्यप्रतिषेधात् । ३७. अनेन सर्वगतत्वमायामशब्दादिभ्यः । ३८. फलमत उपपत्तेः । ३९. श्रुतत्वाच्च । ४०. धर्मं जैमिनिरत एव। ४१. पूर्वं तु बादरायणो हेतुव्यपदेशात् । ॥इति वैयासिकब्रह्मसूत्रपाठे तृतीयाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । २. भेदान्नेति चेन्न एकस्यामपि । ३. स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः । ४. दर्शयति च । ५. उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org