________________
१५०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१७. विद्याकर्मणोरिति तु प्रकृतत्वात् । १८. न तृतीये तथोपलब्धेः । १९. स्मर्यतेऽपि च लोके । २०. दर्शनाच्च। २१. तृतीयशब्दावरोधः संशोकजस्य । २२. साभाव्यापत्तिरुपपत्तेः । २३. नातिचिरेण विशेषात् । २४. अन्याधिष्ठितेषु पूर्ववदभिलापात् । २५. अशुद्धमिति चेन्न शब्दात् । २६. रेतः सिग्योगोऽथ । २७. योनेः शरीरम्। ॥ इति वैयासिकब्रह्मसूत्रपाठे तृतीयाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः १. सन्ध्ये सृष्टिराह हि। २. निर्मातारं चैके पुत्रादयश्च । ३. मायामात्रन्तु कात्स्न्र्येनाभिव्यक्तस्वरूपत्वात् । ४. सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ५. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ६. देहयोगाद्वा सोऽपि। ७. तदभावो नाडीषु तच्छृतेरात्मनि च । ८. अतः प्रबोधोऽस्मात् । ९. स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । १०. मुग्धेऽर्धसम्पत्तिः परिशेषात् । ११. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि। १२. न भेदादिति चेन्न प्रत्येकमतद्वचनात् । १३. अपि चैवमेके। १४. अरूपवदेव हि तत् प्रधानत्वात् । १५. प्रकाशवच्चावैयर्थ्यात् । १६. आह च तन्मात्रम् । १७. दर्शयति चाथोअपि स्मर्यते । १८. अत एव चोपमा सूर्यकादिवत् ।
For Personal & Private Use Only
www.jainelibrary.org