________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१४९
११. अकरणत्वाच्च न दोषस्तथा हि दर्शयति । १२. पञ्चवृत्तिर्मनोवद् व्यपदिश्यते । १३. अणुश्च। १४. ज्योतिराद्यधिष्ठानं तु तदामननात् । १५. प्राणवता शब्दात् । १६. तस्य च नित्यत्वात् । १७. त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । १८. भेदश्रुतेः। १९. वैलक्षण्याच्च । २०. संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् २१. मांसादि भौमं यथाशब्दमितरयोश्च । २२. वैशेष्यात्तु तद्वादस्तद्वादः । ॥ इति वैयासिकब्रह्मसूत्रपाठे द्वितीयाध्यायस्य चतुर्थः पादः द्वितीयोऽध्यायश्च ।
___ अथ तृतीयोऽध्यायः प्रथमः पादः १. तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । २. त्र्यात्मकत्वात्तु भूयस्त्वात् । ३. प्राणगतेश्च । ४. अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् । ५. प्रथमेऽश्रवणादिति चेन्न् ता एव ह्युपपत्तेः। ६. अश्रुतत्वादिति चेन्न इष्टादिकारिणां प्रतीतेः । ७. भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति । ८. कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् यथेतमनेवं च । ९. चरणादिति चेन्न उपलक्षणार्थेति कार्णाजिनिः। १०. आनर्थक्यमिति चेन्न तदपेक्षत्वात् । ११. सुकृतदुष्कृते एवेति तु बादरिः । १२. अनिष्टादिकारिणामपि च श्रुतम् । १३. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् । १४. स्मरन्ति च। १५. अपि च सप्त । १६. तत्रापि च तद्व्यापारादविरोधः । Private
१६
पा
I
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org