SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४८ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम् ३६. व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । ३७. उपलब्धिवदनियमः । ३८. शक्तिविपर्ययात् । ३९. समाध्यभावाच्च । ४०. यथा.च तक्षोभयथा । ४१. परात्तु तच्छ्रुतेः। ४२. कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः । ४३. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके। ४४. मन्त्रवर्णाच्च। ४५. अपि च स्मर्यते। ४६. प्रकाशादिवन्नैवं परः। ४७. स्मरन्ति च । ४८. अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् । ४९. असन्ततेश्चाव्यतिकरः । ५०. आभास एव च। ५१. अदृष्टानियमात् । ५२. अभिसन्ध्यादिष्वपि चैवम् । ५३. प्रदेशादिति चेन्न अन्तर्भावात् । ॥ इति वैयासिकब्रह्मसूत्रपाठे द्वितीयाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः १. तथा प्राणाः। २. गौण्यसम्भवात्। ३. तत्प्राक्श्रुतेश्च । ४. तत्पूर्वकत्वाद्वाचः। ५. सप्तगतेर्विशेषितत्वाच्च । ६. हस्तादयस्तु स्थितेऽतो नैवम् । ७. अणवश्च । ८. श्रेष्ठश्च। ९. न वायुक्रिये पृथगुपदेशात् । १०. चक्षुरादिवत्तु तत् सहशिष्ट्यादिभ्यः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy