SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ विभाग- १, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम् ५. स्याच्चैकस्य ब्रह्मशब्दवत् । ६. प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः । ७. यावद्विकारन्तु विभागो लोकवत् । ८. एतेन मातरिश्वा व्याख्यातः ९. असम्भवस्तु सतोऽनुपपत्तेः । १०. तेजोऽतस्तथा ह्याह । ११. आपः । १२. पृथिव्यधिकाररूपशब्दान्तरेभ्यः । १३. तदभिध्यानादेव तु तल्लिङ्गात् सः । १४. विपर्ययेण तु क्रमोऽत उपपद्यते च । १५. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न अविशेषात् । १६. चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् । १७. नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः । १८. ज्ञोऽत एव । १९. उत्क्रान्तिगत्यागतीनाम् । २०. स्वात्मना चोत्तरयोः । २१. नाणुरतश्रुतेरिति चेन्न इतराधिकारात् २२. स्वशब्दोन्मानाभ्याञ्च । २३. अविरोधश्चन्दनवत् । २४. अवस्थितिवैशेष्यादिति चेन्न अभ्युपगमादि हि । २५. गुणाद्वा लोकवत् । २६. व्यतिरेको गन्धवत् । २७. तथा च दर्शयति । २८. पृथगुपदेशात् । २९. तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् । ३०. यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ३१. पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात् । ३२. नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । ३३. कर्ता शास्त्रार्थवत्त्वात् । ३४. विहारोपदेशात् । ३५. उपादानात् । Jain Education International For Personal & Private Use Only १४७ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy