________________
१५२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
६. अन्यथात्वं शब्दादिति चेन्न अविशेषात् । ७. न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ८. संज्ञातश्चेत् तदुक्तमस्ति तु तदपि । ९. व्याप्तेश्च समञ्जसम् । १०. सर्वाभेदादन्यत्रेमे। ११. आनन्दादयः प्रधानस्य । १२. प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । १३इतरे त्वर्थसामान्यात् । १४. आध्यानाय प्रयोजनाभावात् । १५. आत्मशब्दाच्च । १६. आत्मगृहीतिरितवदुत्तरात् । १७. अन्वयादिति चेत् ? स्यादवधारणात् । १८. कार्याख्यानादपूर्वम् । १९. समान एवं चाभेदात् । २०. सम्बन्धादेवमन्यत्रापि । २१. न वा विशेषात् । २२. दर्शयति च। २३. सम्भृतिधुव्याप्त्यापि चातः । २४. पुरुषविद्यायामिव चेतरेषामनाम्नात् । २५. वेधाद्यर्थभेदात्। २६. हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दः स्तुत्युपगानवत्तदुक्तम् । २७. साम्पराये कर्त्तव्याभावात् तथा ह्यन्ये । २८. छन्दत उभयाविरोधात् । २९. गतेरर्थवत्त्वमुभयथा अन्यथा हि विरोधः ३०. उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् । ३१. अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् । ३२. यावदधिकारमवस्थितिराधिकारिकाणाम् । ३३. अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् । ३४. इयदामननात् । ३५. अन्तरा भूतग्रामवत् स्वात्मनः । ३६. अन्यथा भेदानुपपत्तिरिति चेन्न उपदेशान्तरवत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org