________________
१४४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
अथ द्वितीयोऽध्यायः प्रथमः पादः १. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । २. इतरेषां चानुपलब्धेः । ३. एतेन योगः प्रत्युक्तः। ४. न विलक्षणत्वादस्य तथात्वञ्च शब्दात् । ५. अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । ६. दृश्यते तु । ७. असदिति चेन्न प्रतिषेधमात्रत्वात् । ८. अपीतौ तद्वत् प्रसङ्गादसमञ्जसम् । ९. न तु दृष्टान्तभावात् । १०. स्वपक्षदोषाच्च । ११. तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः। १२. एतेन शिष्टापरिग्रहा अपि व्याख्याताः । १३. भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्। १४. तदनन्यत्वमारम्भणशब्दादिभ्यः । १५. भावे चोपलब्धेः। १६. सत्त्वाच्चावरस्य । १७. असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । १८. युक्तेः शब्दान्तराच्च । १९. पटवच्च । २०. यथा च प्राणादि। २१. इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । २२. अधिकं तु भेदनिर्देशात् । २३. अश्मादिवच्च तदनुपपत्तिः । २४. उपसंहारदर्शनान्नेति चेन्न क्षीरवृद्धिः । २५. देवादिवदपि लोके । २६. कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा । २७. श्रुतेस्तु शब्दमूलत्वात् । २८. आत्मनि चैवं विचित्राश्च हि। २९. स्वपक्षदोषाच्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org