________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१४३
चतुर्थः पादः १. आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेः दर्शयति च । २. सूक्ष्मं तु तदर्हत्वात् । ३. तदधीनत्वादर्थवत् । ४. ज्ञेयत्वावचनाच्च । ५. वदतीति चेन्न प्राज्ञो हि प्रकरणात् । ६. त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । ७. महद्वच्च । ८. चमसवदविशेषात्। ९. ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । १०. कल्पनोपदेशाच्च मध्वादिवदविरोधः । ११. न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च । १२. प्राणादयो वाक्यशेषात् । १३. ज्योतिषैकेषामसत्यने । १४. कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः । १५. समाकर्षात्। १६. जगद्वाचित्वात्। १७. जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् । १८. अन्यार्थं तु जैमिनिः प्रश्नव्याख्याभ्यामपि चैवमेके । १९. वाक्यान्वयात् । २०. प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । २१. उत्क्रमिष्यत एवं भावादित्यौडुलोमिः । २२. अविस्थितेरिति काशकृत्स्नः । २३. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । २४. अभिध्योपदेशाच्च । २५. साक्षाच्चोभयाम्नानात् । २६. आत्मकृतेः परिणामात्। २७. योनिश्च हि गीयते। २८. एतेन सर्वे व्याख्याता व्याख्याताः ।
॥इति वैयासिकब्रह्मसूत्रपाठे प्रथमाध्यायस्य चतुर्थः पादः प्रथमोऽध्यायश्च ॥
For Personal & Private Use Only
www.jainelibrary.org