SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४२ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम् १६. धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । १७. प्रसिद्धेश्च। १८. इतरपरामर्शात् स इति चेन्न असम्भवात् १९. उत्तराच्चेदाविर्भूतस्वरूपस्तु । २०. अन्यार्थश्च परामर्शः। २१. अल्पश्रुतेरिति चेत् तदुक्तम् । २२. अनुकृतेस्तस्य च । २३. अपि च स्मर्यते। २४. शब्दादेव प्रमितः। २५. हृद्यपेक्षया तु मनुष्याधिकारत्वात् । २६. तदुपर्यपि बादरायणः सम्भवात् । २७. विरोधः कर्मणीति चेन्न अनेकप्रतिपत्तेर्दर्शनात् । २८. शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । २९. अत एव च नित्यत्वम् । ३०. समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च । ३१. मध्वादिष्वसम्भवादनधिकारं जैमिनिः । ३२. ज्योतिषि भावाच्च । ३३. भाव तु बादरायणोऽस्ति हि। ३४. शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ३५. क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् । ३६. संस्कारपरामर्शात् तद्भावाभिलापाच्च । ३७. तदभावनिर्धारणे च प्रवृत्तेः। ३८. श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च । ३९. कम्पनात् । ४०. ज्योतिर्दर्शनात् । ४१. आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ४२. सुषुप्त्युत्क्रान्त्योर्भेदेन । ४३. पत्यादिशब्देभ्यः । ॥इति वैयासिकब्रह्मसूत्रपाठे प्रथमाध्यायस्य तृतीयः पादः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy