SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम् २२. विशेषणभेदव्यपदेशाभ्यां च नेतरौ । २३. रूपोपन्यासाच्च । २४. वैश्वानरः साधारणशब्दविशेषात् । २५. स्मर्यमाणमनुमानं स्यादिति । २६. शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न:, तथादृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते । २७. अत एव न देवता भूतं च । २८. साक्षादप्यविरोधं जैमिनिः । २९. अभिव्यक्तेरित्याश्मरथ्यः । ३०. अनुस्मृतेर्बादरिः । ३१. सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति । ३२. आमनन्ति चैनमस्मिन् । ॥ इति वैयासिकब्रह्मसूत्रपाठे प्रथमाध्यायस्य द्वितीयः पादः ॥ तृतीय: पाद: १. द्युभ्वाद्यायतनं स्वशब्दात् । २. मुक्तोपसृप्यव्यपदेशात् । ३. नानुमानमतच्छब्दात् । ४. प्राणभृच्च । ५. भेदव्यपदेशात् । ६. प्रकरणात् । ७. स्थित्यदनाभ्यां च । ८. भूमा सम्प्रसादादध्युपदेशात् । ९. धर्मोपपत्तेश्च । १०. अक्षरमम्बरान्तधृतेः । ११. सा च प्रशासनात् । १२. अन्यभावव्यावृत्तेश्च । १३. ईक्षतिकर्मव्यपदेशात् स । १४. दहर उत्तरेभ्यः । १५. गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गञ्च ! Private Use Only १४१ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy