________________
१४०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
२६. भूतादिपादव्यपदेशोपपत्तेश्चैवम् । २७. उपदेशभेदान्नेति चेन्न, उभयस्मिन्नप्यविरोधात् । २८. प्राणस्तथानुगमात्। २९. न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्ध भूमा ह्यस्मिन् । ३०. शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ३१. जीवमुख्यप्राणलिङ्गान्नेति चेन्न, उपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ।
॥ इति वैयासिकब्रह्मसूत्रपाठे प्रथमाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः १. सर्वत्र प्रसिद्धोपदेशात् । २. विवक्षितगुणोपपत्तेश्च। ३. अनुपपत्तेस्तु न शारीरः। ४. कर्मकर्तृव्यपदेशाच्च । ५. शब्दविशेषात् । ६. स्मृतेश्च। ७. अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न, निचाय्यत्वादेवं व्योमवच्च । ८. सम्भोगप्राप्तिरिति चेन्न, वैशेष्यात् । ९. अत्ता चराचरग्रहणात् । १०. प्रकरणाच्च । ११. गुहां प्रविष्टावात्मानौ हि तदर्शनात् । १२. विशेषणाच्च । १३. अन्तर उपपत्तेः। १४. स्थानादिव्यपदेशाच्च । १५. सुखविशिष्टाभिधानादेव च । १६. श्रुतोपनिषत्कगत्यभिधानाच्च । १७. अनवस्थितेरसम्भवाच्च नेतरः । १८. अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् १९. न च स्मार्तमतद्धर्माभिलापात् । २०. शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । २१. अदृश्यत्वादिगुणतो धर्मोक्तेः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org