________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
१३९
श्री वेदव्यासकृतम् वैयासिकब्रह्मसूत्रपाठः (३)॥ वेदान्तदर्शनम् ॥
अथ प्रथमोऽध्यायः
प्रथमः पादः १. अथातो ब्रह्मजिज्ञासा । २. जन्माद्यस्य यतः। ३. शास्त्रयोनित्वात्। ४. तत्तु समन्वयात् । ५. ईक्षते शब्दम्। ६. गौणश्चेन्नात्मशब्दात्। ७. तन्निष्टस्य मोक्षोपदेशात् । ८. हेयत्वावचनाच्च । ९. स्वाप्ययात् । १०. गतिसामान्यात्। ११. श्रुतत्वाच्च। १२. आनन्दमयोऽभ्यासात् । १३. विकारशब्दान्नेति चेन्नः प्राचुर्य्यात् । १४. तद्धेतुव्यपदेशाच्च । १५. मात्रवर्णिकमेव च गीयते। १६. नेतरोऽनुपपत्तेः । १७. भेदव्यपदेशाच्च । १८. कामाच्च नानुमानापेक्षा। १९. अस्मिन्नस्य च तद्योगं शास्ति । २०. अन्तस्तद्धर्मोपदेशात् । २१. भेदव्यपदेशाच्चान्यः) २२. आकाशस्तल्लिङ्गात्। २३. अत एव प्राणः। २४. ज्योतिश्चरणाभिधानात् । २५. छन्दोऽभिधान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org